साहित्य

भारतीय महिला-क्रीडादलाय अभिनन्दनपत्रम्

डॉ॰ विद्यावाचस्पति उदयराज मिश्रः

प्रति —
भारतीय महिला-क्रिकेट्-दलाय,
विश्वकप-विजेतृभ्यः,
नमः।

सादरं निवेदनम् —
युष्माभिः विश्वकप-प्रतियोगितायां प्रदर्शितं साहसम्, श्रमः, संयमः, कौशलं च
भारतीय-नारीशक्तेः अद्भुतं उदाहरणम् अस्ति।
युष्माकं जयः केवलं क्रीडाक्षेत्रे न,
अपितु राष्ट्रस्य गौरवस्य, नारी-गौरवस्य च उत्कर्ष-चिह्नं जातः।
युष्माकं परिश्रमः, धैर्यम्, समर्पणभावश्च
भारतीय कन्यानां, मातृणां, युवतिनां च
प्रेरणास्रोतं भविष्यति।
भारतभूमेः इतिहासे एषा विजयकथा स्वर्णाक्षरैः लिखिता भविष्यति।
मम ओरतः तथा राष्ट्रीय शैक्षिक महासंघस्य सम्पूर्ण-परिवारस्य ओरतः
युष्माकं सर्वेषां प्रति हार्दिकाः शुभाशंसाः, अभिनन्दनानि च निवेदयामि।
ईश्वरः युष्मभ्यं निरन्तरं तेजः, बलं, यशः, विजयप्रेरणां च ददातु इति प्रार्थ्यते।

जयतु भारतम्।
विजयी भवतु भारतीय-नारी-दलम्।
सादरं,
डॉ॰ विद्यावाचस्पति उदयराज मिश्रः
मण्डलाध्यक्षः — राष्ट्रीय शैक्षिक महासंघः, अयोध्या-मण्डलम्।(माध्यमिक संवर्गम,उत्तर प्रदेश:)

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
error: Content is protected !!